विष्णुसहस्रनाम स्तोत्र:Vishnu Sahasranam Stotra
Vishnu Sahasranamam Stotram:विष्णुसहस्रनाम

विष्णुसहस्रनाम स्तोत्र:Vishnu Sahasranam Stotra

सुप्रसादः प्रसन्नात्मा विश्वधृक्-विश्वभुक्-विभुः ।

सत्कर्ता सकृतः साधु: जह्नु:-नारायणो नरः ।। 26 ।।

 असंख्येयो-अप्रमेयात्मा विशिष्टः शिष्ट-कृत्-शुचिः ।

सिद्धार्थः सिद्धसंकल्पः सिद्धिदः सिद्धिसाधनः ।। 27।।

 वृषाही वृषभो विष्णु: वृषपर्वा वृषोदरः ।

वर्धनो वर्धमानश्च विविक्तः श्रुति-सागरः ।। 28 ।। 

सुभुजो दुर्धरो वाग्मी महेंद्रो वसुदो वसुः ।

नैक-रूपो बृहद-रूपः शिपिविष्टः प्रकाशनः ।। 29 ।।

 

ओज: तेजो-द्युतिधरः प्रकाश-आत्मा प्रतापनः ।

ऋद्धः स्पष्टाक्षरो मंत्र:चंद्रांशु: भास्कर-द्युतिः ।। 30 ।।

 अमृतांशूद्भवो भानुः शशबिंदुः सुरेश्वरः ।

औषधं जगतः सेतुः सत्य-धर्म-पराक्रमः ।। 31 ।। 

भूत-भव्य-भवत्-नाथः पवनः पावनो-अनलः ।

कामहा कामकृत-कांतः कामः कामप्रदः प्रभुः ।। 32 ।। 

युगादि-कृत युगावर्तो नैकमायो महाशनः ।

अदृश्यो व्यक्तरूपश्च सहस्रजित्-अनंतजित ।। 33 ।। 

इष्टो विशिष्टः शिष्टेष्टः शिखंडी नहुषो वृषः ।

क्रोधहा क्रोधकृत कर्ता विश्वबाहु: महीधरः ।। 34 ।। 

अच्युतः प्रथितः प्राणः प्राणदो वासवानुजः ।

अपाम निधिरधिष्टानम् अप्रमत्तः प्रतिष्ठितः ।। 35 ।।

 स्कन्दः स्कन्द-धरो धुर्यो वरदो वायुवाहनः ।

वासुदेवो बृहद भानु: आदिदेवः पुरंदरः ।। 36 ।। 

अशोक: तारण: तारः शूरः शौरि: जनेश्वर: ।

अनुकूलः शतावर्तः पद्मी पद्मनिभेक्षणः ।। 37 ।। 

पद्मनाभो-अरविंदाक्षः पद्मगर्भः शरीरभृत ।

महर्धि-ऋद्धो वृद्धात्मा महाक्षो गरुड़ध्वजः ।। 38 ।। 

अतुलः शरभो भीमः समयज्ञो हविर्हरिः ।

सर्वलक्षण लक्षण्यो लक्ष्मीवान समितिंजयः ।। 39 ।।

 विक्षरो रोहितो मार्गो हेतु: दामोदरः सहः ।

महीधरो महाभागो वेगवान-अमिताशनः ।। 40 ।। 

उद्भवः क्षोभणो देवः श्रीगर्भः परमेश्वरः ।

करणं कारणं कर्ता विकर्ता गहनो गुहः ।। 41 ।।

 व्यवसायो व्यवस्थानः संस्थानः स्थानदो-ध्रुवः ।

परर्रद्वि परमस्पष्टः तुष्टः पुष्टः शुभेक्षणः ।। 42 ।। 

रामो विरामो विरजो मार्गो नेयो नयो-अनयः ।

वीरः शक्तिमतां श्रेष्ठ: धर्मो धर्मविदुत्तमः ।। 43 ।।

वैकुंठः पुरुषः प्राणः प्राणदः प्रणवः पृथुः ।

हिरण्यगर्भः शत्रुघ्नो व्याप्तो वायुरधोक्षजः ।। 44।। 

ऋतुः सुदर्शनः कालः परमेष्ठी परिग्रहः ।

उग्रः संवत्सरो दक्षो विश्रामो विश्व-दक्षिणः ।। 45 ।।

 विस्तारः स्थावर: स्थाणुः प्रमाणं बीजमव्ययम ।

अर्थो अनर्थो महाकोशो महाभोगो महाधनः ।। 46 ।। 

अनिर्विण्णः स्थविष्ठो-अभूर्धर्म-यूपो महा-मखः ।

नक्षत्रनेमि: नक्षत्री क्षमः क्षामः समीहनः ।। 47 ।। 

यज्ञ इज्यो महेज्यश्च क्रतुः सत्रं सतां गतिः ।

सर्वदर्शी विमुक्तात्मा सर्वज्ञो ज्ञानमुत्तमं ।। 48 ।।

 सुव्रतः सुमुखः सूक्ष्मः सुघोषः सुखदः सुहृत ।

मनोहरो जित-क्रोधो वीरबाहुर्विदारणः ।। 49 ।। 

स्वापनः स्ववशो व्यापी नैकात्मा नैककर्मकृत ।

वत्सरो वत्सलो वत्सी रत्नगर्भो धनेश्वरः ।। 50 ।।

Leave a Reply